|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.184. अध्यायः 184
Mahabharata - Shanti Parva - Chapter Topics
भरद्वाजेन भृगुंप्रति सयुक्तिकं संघातान्यजीवपक्षाक्षेपः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भरद्वाज उवाच। 12-184-0x(5929)(72368)
यदि प्राणयते वायुर्वायुरेव विचेष्टते।
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः॥ 12-184-1(72369)
यदूष्मभाव आग्नेयो वह्निना पच्यते यदि।
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः॥ 12-184-2(72370)
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते।
वायुरेव जहात्येनमूष्मभावश्च नश्यति॥ 12-184-3(72371)
यदि वायुमयो जीवः संश्लेषो यदि वायुना।
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः॥ 12-184-4(72372)
श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति।
महार्णववियुक्तत्वादन्यत्सलिलभाजनम्॥ 12-184-5(72373)
यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने।
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः॥ 12-184-6(72374)
पञ्च साधारणो ह्यस्मिञ्शरीरे जीवितं कुतः।
तेषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः॥ 12-184-7(72375)
नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात्।
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्॥ 12-184-8(72376)
व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते।
पीडितेऽन्यतमे ह्येषां संघातो याति पञ्चताम्॥ 12-184-9(72377)
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति।
किं वेदयति वा जीवः किं शृणोति ब्रवीति च॥ 12-184-10(72378)
एषा गौः परलोकस्थं तारयिष्यति मामिति।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति॥ 12-184-11(72379)
गौश्च प्रतिग्रहीता च दाता चैव समं यदा।
इहैव विलयं यान्ति कुतस्तेषां समागमः॥ 12-184-12(72380)
विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः॥ 12-184-13(72381)
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति।
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति॥ 12-184-14(72382)
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते।
मृतामृताः प्रणश्यन्ति बीजाद्वीजं प्रवर्तते॥ ॥ 12-184-15(72383)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः॥ 184॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-184-3 जन्तोर्देहेन्द्रियबुद्धिसंघातस्य। प्रमीयमाणस्य नश्यमानस्य। नैवोपलभ्यते पलालपृथक्करणे बीजमिव। तस्माद्वायुवियोग एव मरणम्। जन्तोः प्रकीर्यमाणस्येति थ. पाठः॥ 12-184-4 वायुमयो वायुप्रधानो वायोरन्यः। वायुमण्डलवद्वात्याचक्रवद्वायुना सह दृश्यः स्यादित्यर्थः। यदि वातोपमो जीव इति ट.पाठः॥ 12-184-5 संश्लेषो यदि वातेन यदि तस्मात्प्रणश्यतीतिझ. पाठः। तत्र यदि वातेन जीवस्य संश्लेषोऽस्ति तस्माच्च जीवादन्यो वातः पञ्चत्वदशायां यदि प्रणश्यति तर्हि यथा महार्णवे क्षिप्तं जलभाजनं सलिलापगमे दृश्यते तद्वद्वायुसंश्लिष्टो जीवो वायोरपगमे दृश्येतेत्यर्थः॥ 12-184-6 क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथेति घ. पाठः॥ 12-184-7 पञ्चधारणके इति। तेषामन्यतराभावाच्चतुर्णां नास्ति संशयः। इति च. झ. पाठः॥ 12-184-14 मृतस्य पुनरागमनाभावोऽपि संसारप्रवाहस्याविच्छेदे दृष्टान्तमाह छिन्नस्येति॥ 12-184-15 दार्ष्टान्तिकमाह बीजमात्रमिति। शरीरमूलं तु बीजमात्रं प्रत्यक्षदृष्टं रेतएव नत्वदृष्टमक्लृत्वात्। प्रवर्तते देहरूपेण परिणमते। तथाच बीजरुहतरुवन्नष्टानां नाश एवेतरेषामुद्भव इति। तस्मान्नित्यं समिध्यते इत्यनुपपन्नम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|